आ꣡ नः꣢ सुतास इन्दवः पुना꣣ना꣡ धा꣢वता र꣣यि꣢म् । वृ꣣ष्टि꣡द्या꣢वो रीत्यापः स्व꣣र्वि꣡दः꣢ ॥१३२८॥
(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)आ नः सुतास इन्दवः पुनाना धावता रयिम् । वृष्टिद्यावो रीत्यापः स्वर्विदः ॥१३२८॥
आ꣢ । नः꣣ । सुतासः । इन्दवः । पुनानाः꣢ । धा꣣वत । रयि꣢म् । वृ꣣ष्टि꣡द्या꣢वः । वृ꣣ष्टि꣢ । द्या꣣वः । रीत्यापः । रीति । आपः । स्वर्वि꣡दः꣢ । स्वः꣣ । वि꣡दः꣢꣯ ॥१३२८॥
हिन्दी : आचार्य रामनाथ वेदालंकार
अगले मन्त्र में फिर उसी विषय का वर्णन है।
हे (सुतासः) अभिषुत किये हुए (इन्दवः) ब्रह्मानन्द-रसो ! (पुनानाः) पवित्र करते हुए तुम (नः) हमें (रयिम्) सद्गुणों का ऐश्वर्य (आ धावत) प्राप्त कराओ। हे (रीत्यापः) वेग से प्रवाहित होनेवाले ब्रह्मानन्दो ! तुम (वृष्टिद्यावः) मस्तिष्क से विज्ञान की वृष्टि करनेवाले और (स्वर्विदः) दिव्य प्रकाश प्राप्त करानेवाले हो ॥३॥
ब्रह्मानन्द द्वारा अन्तरात्मा के प्रकाशित और पवित्र हो जाने पर मस्तिष्क-भूमि भी उपजाऊ होकर विविध ज्ञान-विज्ञान आदि को उत्पन्न करती हुई योगी को उपकृत करती है ॥३॥
संस्कृत : आचार्य रामनाथ वेदालंकार
अथ पुनरपि स एव विषयो वर्ण्यते।
हे (सुतासः) अभिषुताः (इन्दवः) ब्रह्मानन्दरसाः ! (पुनानाः) पावयन्तः यूयम् (नः) अस्मभ्यम् (रयिम्) सद्गुणैश्वर्यम् (आ धावत) आगमयत। हे (रीत्यापः) द्रुतप्रवाहाः ब्रह्मानन्दाः। [रीतयः गमनशीलाः आपः प्रवाहाः येषां ते रीत्यापः, री गतिरेषणयोः, क्र्यादिः, कर्तरि क्तिन्।] यूयम्, (वृष्टिद्यावः) वृष्टिः विज्ञानवर्षणकरी द्यौः मस्तिष्कभूमिः यैस्तथाविधाः, मस्तिष्काद् विज्ञानवृष्टिं कुर्वाणाः इत्यर्थः, (स्वर्विदः) दिव्यप्रकाशलम्भकाश्च, स्थ इति शेषः ॥३॥
ब्रह्मानन्देनान्तरात्मनि प्रकाशिते पवित्रीकृते च मस्तिष्कभूमिरप्युर्वरा सती विविधज्ञानविज्ञानादिकं जनयन्ती योगिनमुपकरोति ॥३॥