वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: पवमानः सोमः ऋषि: शतं वैखानसाः छन्द: गायत्री स्वर: षड्जः काण्ड:

प꣣व꣢मानो र꣣थी꣡त꣢मः शु꣣भ्रे꣡भिः꣢ शु꣣भ्र꣡श꣢स्तमः । ह꣡रि꣢श्चन्द्रो म꣣रु꣡द्ग꣢णः ॥१३११॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

पवमानो रथीतमः शुभ्रेभिः शुभ्रशस्तमः । हरिश्चन्द्रो मरुद्गणः ॥१३११॥

मन्त्र उच्चारण
पद पाठ

प꣡व꣢꣯मानः । र꣣थी꣡त꣢मः । शु꣣भ्रे꣡भिः꣢ । शु꣣भ्र꣡श꣢स्तमः । शु꣣भ्र꣢ । श꣣स्तमः । ह꣡रि꣢꣯श्चन्द्रः । ह꣡रि꣢꣯ । च꣣न्द्रः । मरु꣡द्ग꣢णः । म꣣रु꣢त् । ग꣣णः ॥१३११॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1311 | (कौथोम) 5 » 2 » 11 » 2 | (रानायाणीय) 10 » 9 » 1 » 2


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में परमात्मा के गुणों का वर्णन है।

पदार्थान्वयभाषाः -

(पवमानः) पवित्रकर्ता जगत्स्रष्टा परमेश्वर (रथीतमः) रथियों में श्रेष्ठ, (शुभ्रेभिः) शुभ्र गुण-कर्मों से (शुभ्रशस्तमः) अतिशय निर्मल यशवाला, (हरिश्चन्द्रः) मनोहर आह्लाद देनेवाला और (मरुद्गणः) प्राण-रूप या पवन-रूप गणोंवाला है ॥२॥

भावार्थभाषाः -

सूर्य, चाँद, पवन, बिजली आदि और मानव-शरीर जिसके बनाये हुए रथ हैं, ऐसे अत्यन्त यशस्वी, परमानन्ददायक, प्राण आदि को चलानेवाले परमेश्वर का ज्ञान सबको पाना चाहिए ॥२॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ परमात्मनो गुणान् वर्णयति।

पदार्थान्वयभाषाः -

(पवमानः) पावकः सोमः जगत्स्रष्टा परमेश्वरः (रथीतमः) रथवत्सु श्रेष्ठः। [रथितमः इति प्राप्ते ‘ईद् रथिनः’। अ० ८।२।१७ वा० इत्यनेन इकारस्य ईकारादेशः।] (शुभ्रेभिः) शुभ्रैः गुणैः (शुभ्रशस्तमः) निर्मलतमयशोयुक्तः, (हरिश्चन्द्रः) हृदयहार्याह्लादः। [हरिः मनोहरः चन्द्रः आह्लादो यस्य सः। चदि आह्लादे। ‘ह्रस्वाच्चन्द्रोत्तरपदे मन्त्रे’ अ० ६।१।१५१ इति सुडागमः।] (मरुद्गणः) मरुतः प्राणा वायवो वा गणा यस्य तथाविधश्च वर्तते ॥२॥

भावार्थभाषाः -

सूर्यचन्द्रपवनविद्युदादयो मानवदेहाश्च यस्य रथाः सन्ति स यशस्वितमः परमानन्दः प्राणादीनां नायकः परमेश्वरः सर्वैर्ज्ञातव्यः ॥२॥