ऋ꣣षि꣢मना꣣ य꣡ ऋ꣢षि꣣कृ꣢त्स्व꣣र्षाः꣢ स꣣ह꣡स्र꣢नीथः पद꣣वीः꣡ क꣢वी꣣ना꣢म् । तृ꣣ती꣢यं꣣ धा꣡म꣢ महि꣣षः꣡ सिषा꣢꣯स꣣न्त्सो꣡मो꣢ वि꣣रा꣢ज꣣म꣡नु꣢ राजति꣣ ष्टु꣢प् ॥११७६॥
(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)ऋषिमना य ऋषिकृत्स्वर्षाः सहस्रनीथः पदवीः कवीनाम् । तृतीयं धाम महिषः सिषासन्त्सोमो विराजमनु राजति ष्टुप् ॥११७६॥
ऋ꣡षि꣢꣯मनाः । ऋ꣡षि꣢꣯ । म꣣नाः । यः꣢ । ऋ꣣षिकृ꣢त् । ऋ꣣षि । कृ꣢त् । स्व꣣र्षाः꣢ । स्वः꣣ । साः꣢ । स꣣ह꣡स्र꣢नीथः । स꣣ह꣡स्र꣢ । नी꣣थः । पदवीः꣢ । प꣣द । वीः꣢ । क꣣वीना꣢म् । तृ꣣ती꣡य꣢म् । धा꣡म꣢꣯ । म꣣हिषः꣢ । सि꣡षा꣢꣯सन् । सो꣡मः꣢꣯ । वि꣡रा꣡ज꣢म् । वि꣣ । रा꣡ज꣢꣯म् । अ꣡नु꣢꣯ । रा꣣जति । स्तु꣢प् ॥११७६॥
हिन्दी : आचार्य रामनाथ वेदालंकार
अगले मन्त्र में परमात्मा के गुण-कर्मों का वर्णन है।
(यः) जो (ऋषिमनाः) ऋषि स्वभाववाला, (ऋषिकृत्) उपासकों को ऋषि बनानेवाला, (स्वर्षाः) आनन्दप्रदाता, (सहस्रनीथः) सहस्र नीतियोंवाला, (कवीनाम्) क्रान्तदर्शियों को (पदवीः) उच्च पद प्राप्त करानेवाला है, वह (महिषः) महान्, (स्तुप्) सबका आधारस्तम्भरूप (सोमः) जगदीश्वर (तृतीयं धाम) मुक्ति पद को (सिषासन्) देना चाहता हुआ (विराजम्) विशेष तेज से युक्त मनुष्य को (अनुराजति) अनुरञ्जित करता है ॥२॥ यहाँ ऋषि की आवृत्ति में लाटानुप्रास तथा राज की आवृत्ति में यमक अलङ्कार है ॥२॥
जो परमेश्वर ऋषिपद प्राप्त कराकर मोक्ष देता है, उसकी उपासना करके सब सौभाग्यवान् होवें ॥२॥
संस्कृत : आचार्य रामनाथ वेदालंकार
अथ परमात्मनो गुणकर्माणि वर्णयति।
(यः ऋषिमनाः) ऋषिस्वभावः, (ऋषिकृत्) उपासकान् ऋषीन् करोतीति सः, (स्वर्षाः) आनन्दप्रदाता, (सहस्रनीथः) सहस्रनीतिः, (कवीनाम्) क्रान्तदर्शिनाम् (पदवीः) उच्चपदं प्रापयिता अस्ति, सः (महिषः) महान्, (स्तुप्) सर्वेषामाधारस्तम्भभूतः। [स्तुभु स्तम्भे, भ्वादिः।] (सोमः) जगदीश्वरः (तृतीयं धाम) मुक्तिपदम्। [प्रथमं धाम प्रकृतिः, द्वितीयं धाम जीवात्मा, तृतीयं च मोक्षः।] (सिषासन्) दातुमिच्छन्। [षणु दाने, सनि शत्रन्तः।] (विराजम्) विशेषेण दीप्तिमन्तं जनम् (अनुराजति) अनुरञ्जयति। [राजृ दीप्तौ, अत्र रञ्जनकर्मा] ॥२॥ अत्र ‘ऋषि’ इत्यस्यावृत्तौ लाटानुप्रासः, ‘राज’ इत्यस्यावृत्तौ च यमकम् ॥२॥
यः परमेश्वरः जनानृषिपदं प्रापय्य मोक्षं प्रयच्छति तमुपास्य सर्वे सौभाग्यवन्तो जायन्ताम् ॥२॥