वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: पवमानः सोमः ऋषि: मनुः सांवरणः छन्द: अनुष्टुप् स्वर: गान्धारः काण्ड:

सु꣣ष्वाणा꣢सो꣣ व्य꣡द्रि꣢भि꣣श्चि꣡ता꣢ना꣣ गो꣡रधि꣢꣯ त्व꣣चि꣢ । इ꣡ष꣢म꣣स्म꣡भ्य꣢म꣣भि꣢तः꣣ स꣡म꣢स्वरन्वसु꣣वि꣡दः꣢ ॥११०३॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

सुष्वाणासो व्यद्रिभिश्चिताना गोरधि त्वचि । इषमस्मभ्यमभितः समस्वरन्वसुविदः ॥११०३॥

मन्त्र उच्चारण
पद पाठ

सु꣣ण्वाणा꣡सः꣢ । वि । अ꣡द्रि꣢꣯भिः । अ । द्रि꣣भिः । चि꣡ता꣢꣯नाः । गोः । अ꣡धि꣢꣯ । त्व꣣चि꣢ । इ꣡ष꣢꣯म् । अ꣣स्म꣡भ्य꣢म् । अ꣣भि꣡तः꣢ । सम् । अ꣣स्वरन् । वसुवि꣡दः꣢ । व꣣सु । वि꣡दः꣢꣯ ॥११०३॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1103 | (कौथोम) 4 » 1 » 20 » 3 | (रानायाणीय) 7 » 6 » 4 » 3


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

आगे फिर उन्हीं का वर्णन है।

पदार्थान्वयभाषाः -

(अद्रिभिः) मेघों के समान सरस मनों से (सुष्वाणासः) उपदेश देनेवाले, (गोः) राष्ट्रभूमि के (त्वचि अधि) पृष्ठ पर (चितानाः)शिक्षण कला वा राजनीति को जाननेवाले, (वसुविदः) विद्याधन वा सुवर्ण आदि धन को प्राप्त करानेवाले गुरु वा राजपुरुष(इषम्) अभीष्ट ज्ञान वा धन (अस्मभ्यम्) हमारे लिए (अभितः)सब ओर से (समस्वरन्) घोषित करें अर्थात् प्रदान करें ॥३॥

भावार्थभाषाः -

गुरुओं वा राजपुरुषों को विद्वान् कीर्त्तिमान्, विद्योपदेशक तथा अभीष्ट धन आदि प्राप्त करानेवाला होना चाहिए ॥३॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ पुनरपि त एव वर्ण्यन्ते।

पदार्थान्वयभाषाः -

(अद्रिभिः) मेघैरिव सरसैर्मनोभिः (सुष्वाणासः)उपदिशन्तः। [स्वन शब्दे, लिटः कानच्, द्वित्वम्। आज्जसेरसुक्।] (गोः) राष्ट्रभूम्याः (त्वचि अधि) पृष्ठे (चितानाः) शिक्षणकलां राजनीतिं च जानानाः, (वसुविदः) विद्याधनस्य सुवर्णादिधनस्य वा लम्भकाः, सोमासः गुरवो राजपुरुषाश्च (इषम्) अभीष्टं ज्ञानं धनं वा (अस्मभ्यम् अभितः) सर्वतः (समस्वरन्२) घोषयन्तु, प्रयच्छन्तु इति यावत् ॥३॥

भावार्थभाषाः -

गुरुभी राजपुरुषैश्च विद्वद्भिः कीर्तिमद्भिर्विद्योपदेशकैरभीष्ट- धनादिप्रापकैश्च भाव्यम् ॥३॥

टिप्पणी: १. ऋ–० ९।१०१।११। २. समस्वरन् सम्यक् शब्दयन्ति, प्रयच्छन्तीति यावत्—इति सा०।