ऋषि खोजें

ऋग्वेद में त्रयऋषिगणाः के 10 संदर्भ मिले

स सूर्यस्य रश्मिभि: परि व्यत तन्तुं तन्वानस्त्रिवृतं यथा विदे । नयन्नृतस्य प्रशिषो नवीयसी: पतिर्जनीनामुप याति निष्कृतम् ॥


सप्त स्वसारो अभि मातर: शिशुं नवं जज्ञानं जेन्यं विपश्चितम् । अपां गन्धर्वं दिव्यं नृचक्षसं सोमं विश्वस्य भुवनस्य राजसे ॥


ईशान इमा भुवनानि वीयसे युजान इन्दो हरित: सुपर्ण्य: । तास्ते क्षरन्तु मधुमद्घृतं पयस्तव व्रते सोम तिष्ठन्तु कृष्टय: ॥


गोवित्पवस्व वसुविद्धिरण्यविद्रेतोधा इन्दो भुवनेष्वर्पितः । त्वं सुवीरो असि सोम विश्ववित्तं त्वा विप्रा उप गिरेम आसते ॥