ऋषि खोजें

ऋग्वेद में रेणुः के 18 संदर्भ मिले

देवता : इन्द्र: ऋषि : रेणुः छन्द : त्रिष्टुप् स्वर : धैवतः

इन्द्रं स्तवा नृतमं यस्य मह्ना विबबाधे रोचना वि ज्मो अन्तान् । आ यः पप्रौ चर्षणीधृद्वरोभि: प्र सिन्धुभ्यो रिरिचानो महित्वा ॥


आपान्तमन्युस्तृपलप्रभर्मा धुनि: शिमीवाञ्छरुमाँ ऋजीषी । सोमो विश्वान्यतसा वनानि नार्वागिन्द्रं प्रतिमानानि देभुः ॥


इन्द्रो दिव इन्द्र ईशे पृथिव्या इन्द्रो अपामिन्द्र इत्पर्वतानाम् । इन्द्रो वृधामिन्द्र इन्मेधिराणामिन्द्र: क्षेमे योगे हव्य इन्द्र: ॥


देवता : इन्द्र: ऋषि : रेणुः छन्द : त्रिष्टुप् स्वर : धैवतः

प्राक्तुभ्य इन्द्र: प्र वृधो अहभ्य: प्रान्तरिक्षात्प्र समुद्रस्य धासेः । प्र वातस्य प्रथस: प्र ज्मो अन्तात्प्र सिन्धुभ्यो रिरिचे प्र क्षितिभ्य: ॥