ऋषि खोजें

ऋग्वेद में अङ्ग औरवः के 6 संदर्भ मिले

तव त्य इन्द्र सख्येषु वह्नय ऋतं मन्वाना व्यदर्दिरुर्वलम् । यत्रा दशस्यन्नुषसो रिणन्नपः कुत्साय मन्मन्नह्यश्च दंसय: ॥


वि सूर्यो मध्ये अमुचद्रथं दिवो विदद्दासाय प्रतिमानमार्य: । दृळ्हानि पिप्रोरसुरस्य मायिन इन्द्रो व्यास्यच्चकृवाँ ऋजिश्वना ॥


अनाधृष्टानि धृषितो व्यास्यन्निधीँरदेवाँ अमृणदयास्य: । मासेव सूर्यो वसु पुर्यमा ददे गृणानः शत्रूँरशृणाद्विरुक्मता ॥


अयुद्धसेनो विभ्वा विभिन्दता दाशद्वृत्रहा तुज्यानि तेजते । इन्द्रस्य वज्रादबिभेदभिश्नथ: प्राक्रामच्छुन्ध्यूरजहादुषा अन: ॥