वांछित मन्त्र चुनें

अ॒यं नो॑ वि॒द्वान्व॑नवद्वनुष्य॒त इन्दु॑: स॒त्राचा॒ मन॑सा पुरुष्टु॒तः । इ॒नस्य॒ यः सद॑ने॒ गर्भ॑माद॒धे गवा॑मुरु॒ब्जम॒भ्यर्ष॑ति व्र॒जम् ॥

अंग्रेज़ी लिप्यंतरण

ayaṁ no vidvān vanavad vanuṣyata induḥ satrācā manasā puruṣṭutaḥ | inasya yaḥ sadane garbham ādadhe gavām urubjam abhy arṣati vrajam ||

पद पाठ

अ॒यम् । नः॒ । वि॒द्वान् । व॒न॒व॒त् । व॒नु॒ष्य॒तः । इन्दुः॑ । स॒त्राचा॑ । मन॑सा । पु॒रु॒ऽस्तु॒तः । इ॒नस्य॑ । यः । सद॑ने । गर्भ॑म् । आ॒ऽद॒धे । गवा॑म् । उ॒रु॒ब्जम् । अ॒भि । अर्ष॑ति । व्र॒जम् ॥ ९.७७.४

ऋग्वेद » मण्डल:9» सूक्त:77» मन्त्र:4 | अष्टक:7» अध्याय:3» वर्ग:2» मन्त्र:4 | मण्डल:9» अनुवाक:4» मन्त्र:4


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (अयम्) यह जो (नः) हमारे मध्य में (विद्वान्) विद्वान् है, वह (वनुष्यतः) हमारे शत्रुओं को (सत्राचा मनसा) समाहित मन से (वनवत्) नाश कर सकता है और वह परमात्मा (इन्दुः) प्रकाशस्वरूप है (पुरुष्टुतः) तथा माननीय है। (यः) जो पुरुष (इनस्य) ईश्वर की (सदने) सन्निधि में (गर्भम्) शिक्षा को (आदधे) धारण करता है, वह (गवाम्) इन्द्रियों के (व्रजम्) फल को (उरुब्जम्) जो सर्वोपरि है, उसको (अभ्यर्षति) प्राप्त होता है ॥४॥
भावार्थभाषाः - जो विद्वान् इश्वरीयज्ञान पर विश्वास करता है, वह मनुष्यजन्म के फल को प्राप्त करता है ॥४॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (अयम्) असौ यः (नः) अस्माकं मध्ये (विद्वान्) मनीष्यस्ति सः (वनुष्यतः) अस्माकं शत्रून् (सत्राचा मनसा) समाहितमनसा (वनवत्) नाशयतु। स परमात्मा (इन्दुः) प्रकाशस्वरूपोऽस्ति। तथा (पुरुष्टुतः) मान्योऽस्ति (यः) यो जनः (इनस्य) ईश्वरस्य (सदने) सन्निधौ (गर्भम्) शिक्षां (आदधे) दधाति सः (गवाम्) इन्द्रियाणां (व्रजम्) फलानि (उरुब्जम्) यानि श्रेष्ठतराणि सन्ति तानि (अभ्यर्षति) प्राप्नोति ॥४॥