क॒था नू॒नं वां॒ विम॑ना॒ उप॑ स्तवद्यु॒वं धियं॑ ददथु॒र्वस्य॑इष्टये । ता वां॒ विश्व॑को हवते तनूकृ॒थे मा नो॒ वि यौ॑ष्टं स॒ख्या मु॒मोच॑तम् ॥
kathā nūnaṁ vāṁ vimanā upa stavad yuvaṁ dhiyaṁ dadathur vasyaïṣṭaye | tā vāṁ viśvako havate tanūkṛthe mā no vi yauṣṭaṁ sakhyā mumocatam ||
क॒था । नू॒नम् । वा॒म् । विऽम॑नाः । उप॑ । स्त॒व॒त् । यु॒वम् । धिय॑म् । द॒द॒थुः॒ । वस्यः॑ऽइष्टये । ता । वा॒म् । विश्व॑कः । ह॒व॒ते॒ । त॒नू॒ऽकृ॒थे । मा । नः॒ । वि । यौ॒ष्ट॒म् । स॒ख्या । मु॒मोच॑तम् ॥ ८.८६.२