तं हि स्व॒राजं॑ वृष॒भं तमोज॑से धि॒षणे॑ निष्टत॒क्षतु॑: । उ॒तोप॒मानां॑ प्रथ॒मो नि षी॑दसि॒ सोम॑कामं॒ हि ते॒ मन॑: ॥
taṁ hi svarājaṁ vṛṣabhaṁ tam ojase dhiṣaṇe niṣṭatakṣatuḥ | utopamānām prathamo ni ṣīdasi somakāmaṁ hi te manaḥ ||
तम् । हि । स्व॒ऽराज॑म् । वृ॒ष॒भम् । तम् । ओज॑से । धि॒षणे॑ । निः॒ऽत॒त॒क्षतुः॑ । उ॒त । उ॒प॒ऽमाना॑म् । प्र॒थ॒मः । नि । सी॒द॒सि॒ । सोम॑ऽकामम् । हि । ते॒ । मनः॑ ॥ ८.६१.२
शिव शंकर शर्मा
फिर अग्नि का वर्णन करते हैं।
शिव शंकर शर्मा
पुनरप्यग्निं विशिनष्टि।