यस्ते॒ साधि॒ष्ठोऽव॑से॒ ते स्या॑म॒ भरे॑षु ते । व॒यं होत्रा॑भिरु॒त दे॒वहू॑तिभिः सस॒वांसो॑ मनामहे ॥
yas te sādhiṣṭho vase te syāma bhareṣu te | vayaṁ hotrābhir uta devahūtibhiḥ sasavāṁso manāmahe ||
यः । ते॒ । साधि॑ष्ठः । अव॑से । ते । स्या॒म॒ । भरे॑षु । ते॒ । व॒यम् । होत्रा॑भिः । उ॒त । दे॒वहू॑तिऽभिः । स॒स॒ऽवांसः॑ । म॒ना॒म॒हे॒ ॥ ८.५३.७