मा त्वा॒ सोम॑स्य॒ गल्द॑या॒ सदा॒ याच॑न्न॒हं गि॒रा । भूर्णिं॑ मृ॒गं न सव॑नेषु चुक्रुधं॒ क ईशा॑नं॒ न या॑चिषत् ॥
mā tvā somasya galdayā sadā yācann ahaṁ girā | bhūrṇim mṛgaṁ na savaneṣu cukrudhaṁ ka īśānaṁ na yāciṣat ||
मा । त्वा॒ । सोम॑स्य । गल्द॑या । सदा॑ । याच॑न् । अ॒हम् । गि॒रा । भूर्णि॑म् । मृ॒गम् । न । सव॑नेषु । चु॒क्रु॒ध॒म् । कः । ईशा॑नम् । न । या॒चि॒ष॒त् ॥ ८.१.२०
शिव शंकर शर्मा
भक्तजन से वारंवार याच्यमान होने पर परमात्मा कदापि क्रुद्ध नहीं होता, यह इस ऋचा द्वारा दिखलाया जाता है।
आर्यमुनि
अब उपदेशकों को परमात्मा का प्रेमसहित उपदेश करना कथन करते हैं।
शिव शंकर शर्मा
भक्तेन भूयो भूयो याच्यमानोऽपि परमात्मा न कदापि कुप्यतीत्यनया प्रदर्श्यते।
आर्यमुनि
अथ उपदेशकाः परमात्मानं प्रेम्णा उपदिशेयुरिति कथ्यते।