अस॒न्नित्त्वे आ॒हव॑नानि॒ भूरि॒ भुवो॒ विश्वे॑भिः सु॒मना॒ अनी॑कैः। स्तु॒तश्चि॑दग्ने शृण्विषे गृणा॒नः स्व॒यं व॑र्धस्व त॒न्वं॑ सुजात ॥५॥
asann it tve āhavanāni bhūri bhuvo viśvebhiḥ sumanā anīkaiḥ | stutaś cid agne śṛṇviṣe gṛṇānaḥ svayaṁ vardhasva tanvaṁ sujāta ||
अस॑न्। इत्। त्वे इति॑। आ॒ऽहव॑नानि। भूरि॑। भुवः॑। विश्वे॑भिः। सु॒ऽमनाः॑। अनी॑कैः। स्तु॒तः। चि॒त्। अ॒ग्ने॒। शृ॒ण्वि॒षे॒। गृ॒णा॒नः। स्व॒यम्। व॒र्ध॒स्व॒। त॒न्व॑म्। सु॒ऽजा॒त॒ ॥५॥
स्वामी दयानन्द सरस्वती
फिर वह राजा क्या करे, इस विषय को अगले मन्त्र में कहते हैं ॥
हरिशरण सिद्धान्तालंकार
बल- सौमनस्य
स्वामी दयानन्द सरस्वती
पुनः सः राजा किं कुर्य्यादित्याह ॥
हे सुजाताग्ने ! त्वे भुवो भूर्याहवनान्यसन् विश्वेभिरनीकैः सुमनाः स्तुतो गृणानः सर्वेषां वाक्यानि [चित्] शृण्विषे स त्वं स्वयमित्तन्वं वर्धस्व ॥५॥
