व॒यं ते॑ अग्ने स॒मिधा॑ विधेम व॒यं दा॑शेम सुष्टु॒ती य॑जत्र। व॒यं घृ॒तेना॑ध्वरस्य होतर्व॒यं दे॑व ह॒विषा॑ भद्रशोचे ॥२॥
vayaṁ te agne samidhā vidhema vayaṁ dāśema suṣṭutī yajatra | vayaṁ ghṛtenādhvarasya hotar vayaṁ deva haviṣā bhadraśoce ||
व॒यम्। ते॒। अ॒ग्ने॒। स॒म्ऽइधा॑। वि॒धे॒म॒। व॒यम्। दा॒शे॒म॒। सु॒ऽस्तु॒ती। य॒ज॒त्र॒। व॒यम्। घृ॒तेन॑। अ॒ध्व॒र॒स्य॒। हो॒तः॒। व॒यम्। दे॒व॒। ह॒विषा॑। भ॒द्र॒ऽशो॒चे॒ ॥२॥
स्वामी दयानन्द सरस्वती
फिर वे संन्यासी क्या करें, इस विषय को अगले मन्त्र में कहते हैं ॥
हरिशरण सिद्धान्तालंकार
'समिधा-सुष्टुती-घृतेन-हविषा'
स्वामी दयानन्द सरस्वती
पुनस्ते यतयः किं कुर्युरित्याह ॥
हे यजत्र होतर्भद्रशोचे देवाग्ने ! यथा वयं समिधाग्नौ होमं विधेम तथा सुष्टुती ते तुभ्यमन्नादिकं वयं दाशेम। यथर्त्विग्यजमाना अध्वरस्य मध्ये घृतेन हविषा जगद्धितं कुर्वन्ति तथा वयं तव हितं कुर्याम यथा वयं त्वां सेवेमहि तथा त्वमस्मान् सत्यमुपदिश ॥२॥
