ग्नाश्च॒ यन्नर॑श्च वावृ॒धन्त॒ विश्वे॑ दे॒वासो॑ न॒रां स्वगू॑र्ताः। प्रैभ्य॑ इन्द्रावरुणा महि॒त्वा द्यौश्च॑ पृथिवि भूतमु॒र्वी ॥४॥
gnāś ca yan naraś ca vāvṛdhanta viśve devāso narāṁ svagūrtāḥ | praibhya indrāvaruṇā mahitvā dyauś ca pṛthivi bhūtam urvī ||
ग्नाः। च॒। यत्। नरः॑। च॒। व॒वृ॒धन्त॑। विश्वे॑। दे॒वासः॑। न॒राम्। स्वऽगू॑र्ताः। प्र। ए॒भ्यः॒। इ॒न्द्रा॒व॒रु॒णा॒। म॒हि॒ऽत्वा। द्यौः। च॒। पृ॒थि॒वि॒। भू॒त॒म्। उ॒र्वी इति॑ ॥४॥
स्वामी दयानन्द सरस्वती
फिर वे किन के साथ क्या करें, इस विषय को कहते हैं ॥
स्वामी दयानन्द सरस्वती
पुनस्तौ कैस्सह किं कुर्यातामित्याह ॥
यद्ये विश्वे देवासो नरश्च स्वगूर्त्ता नरां ग्नाः स्वकीयाश्च ग्नाः प्राप्य वावृधन्त प्रैभ्य इन्द्रावरुणोर्वी पृथिवि द्यौश्चेव वर्त्तमानौ महित्वा भूतं वर्धेते ते सर्वे मनुष्यैः सत्कर्त्तव्याः सन्ति ॥४॥