वि॒श्व॒दानीं॑ सु॒मन॑सः स्याम॒ पश्ये॑म॒ नु सूर्य॑मु॒च्चर॑न्तम्। तथा॑ कर॒द्वसु॑पति॒र्वसू॑नां दे॒वाँ ओहा॒नोऽव॒साग॑मिष्ठः ॥५॥
viśvadānīṁ sumanasaḥ syāma paśyema nu sūryam uccarantam | tathā karad vasupatir vasūnāṁ devām̐ ohāno vasāgamiṣṭhaḥ ||
वि॒श्व॒ऽदानी॑म्। सु॒ऽमन॑सः। स्या॒म॒। पश्ये॑म। नु। सूर्य॑म्। उ॒च्चर॑न्तम्। तथा॑। क॒र॒त्। वसु॑ऽपतिः। वसू॑नाम्। दे॒वान्। ओहा॑नः। अव॑सा। आऽग॑मिष्ठः ॥५॥
स्वामी दयानन्द सरस्वती
फिर मनुष्य क्या करें, इस विषय को कहते हैं ॥
स्वामी दयानन्द सरस्वती
पुनर्मनुष्याः किं कुर्य्युरित्याह ॥
हे विद्वन्नवसाऽऽगमिष्ठो वसूनां वसुपतिरोहानो भवान् यथाऽस्मान् देवान् करत् तथा वयं विश्वदानीं सूर्य्यमुच्चरन्तं पश्येम नु सुमनसः स्याम ॥५॥