यं व॒र्धय॒न्तीद्गिरः॒ पतिं॑ तु॒रस्य॒ राध॑सः। तमिन्न्व॑स्य॒ रोद॑सी दे॒वी शुष्मं॑ सपर्यतः ॥५॥
yaṁ vardhayantīd giraḥ patiṁ turasya rādhasaḥ | tam in nv asya rodasī devī śuṣmaṁ saparyataḥ ||
यम्। व॒र्धय॑न्ति। इत्। गिरः॑। पति॑म्। तु॒रस्य॑। राध॑सः। तम्। इत्। नु। अ॒स्य॒। रोद॑सी॒ इति॑। दे॒वी इति॑। शुष्म॑म्। स॒प॒र्य॒तः॒ ॥५॥
स्वामी दयानन्द सरस्वती
फिर मनुष्यों को क्या करना चाहिये, इस विषय को कहते हैं ॥
स्वामी दयानन्द सरस्वती
पुनर्मनुष्यैः किं कर्तव्यमित्याह ॥
हे मनुष्या ! यं तुरस्य राधसः पतिमिन्द्रमिद् गिरो वर्धयन्त्यस्य देवी रोदसी शुष्मन्नु सपर्यतस्तमिद्यूयं वर्धयित्वा सेवध्वम् ॥५॥