आ यः प॒प्रौ जाय॑मान उ॒र्वी दू॑रे॒दृशा॑ भा॒सा कृ॒ष्णाध्वा॑। अध॑ ब॒हु चि॒त्तम॒ ऊर्म्या॑यास्ति॒रः शो॒चिषा॑ ददृशे पाव॒कः ॥४॥
ā yaḥ paprau jāyamāna urvī dūredṛśā bhāsā kṛṣṇādhvā | adha bahu cit tama ūrmyāyās tiraḥ śociṣā dadṛśe pāvakaḥ ||
आ। यः। प॒प्रौ। जाय॑मानः। उ॒र्वी इति॑। दू॒रे॒ऽदृशा॑। भा॒सा। कृ॒ष्णऽअ॑ध्वा। अध॑। ब॒हु। चि॒त्। तमः॑। ऊर्म्या॑याः। ति॒रः। शो॒चिषा॑। द॒दृ॒शे॒। पा॒व॒कः ॥४॥
स्वामी दयानन्द सरस्वती
फिर उसी विषय को कहते हैं ॥
स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ॥
हे मनुष्या ! यो जायमानो कृष्णाध्वा दूरेदृशा भासोर्वी आ पप्रावध ऊर्म्याया बहु चित्तमः शोचिषा तिरस्करोति पावक सन् ददृशे तं यूयं विजानीत ॥४॥