उ॒त ब्र॑ह्माणो मरुतो मे अ॒स्येन्द्रः॒ सोम॑स्य॒ सुषु॑तस्य पेयाः। तद्धि ह॒व्यं मनु॑षे॒ गा अवि॑न्द॒दह॒न्नहिं॑ पपि॒वाँ इन्द्रो॑ अस्य ॥३॥
uta brahmāṇo maruto me asyendraḥ somasya suṣutasya peyāḥ | tad dhi havyam manuṣe gā avindad ahann ahim papivām̐ indro asya ||
उ॒त। ब्र॒ह्मा॒णः॒। म॒रु॒तः॒। मे॒। अ॒स्य॒। इन्द्रः॑। सोम॑स्य। सुऽसु॑तस्य। पे॒याः॒। तत्। हि। ह॒व्यम्। मनु॑षे। गाः। अवि॑न्दत्। अह॑न्। अहि॑म्। प॒पि॒ऽवान्। इन्द्रः॑। अ॒स्य॒ ॥३॥
स्वामी दयानन्द सरस्वती
फिर उसी विषय को कहते हैं ॥
स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ॥
यथेन्द्रः सूर्यो रसं पिबति तथा हे राजन् इन्द्रस्त्वं मेऽस्य च तद्धि सुषुतस्य हव्यं पेया येन मनुषे भवान् गा अविन्दद् यथा पपिवानहिमहँस्तथा भवानस्य राज्यस्य पालनं कुर्य्यादुत ब्रह्माणो मरुतो यूयमप्याचरत ॥३॥