वेर॑ध्व॒रस्य॑ दू॒त्या॑नि वि॒द्वानु॒भे अ॒न्ता रोद॑सी संचिकि॒त्वान्। दू॒त ई॑यसे प्र॒दिव॑ उरा॒णो वि॒दुष्ट॑रो दि॒व आ॒रोध॑नानि ॥८॥
ver adhvarasya dūtyāni vidvān ubhe antā rodasī saṁcikitvān | dūta īyase pradiva urāṇo viduṣṭaro diva ārodhanāni ||
वेः। अ॒ध्व॒रस्य॑। दू॒त्या॑नि। वि॒द्वान्। उ॒भे इति॑। अ॒न्तरिति॑। रोद॑सी॒ इति॑। स॒म्ऽचि॒कि॒त्वान्। दू॒तः। ई॒य॒से॒। प्र॒ऽदिवः॑। उ॒रा॒णः। वि॒दुःऽत॑रः। दि॒वः। आ॒ऽरोध॑नानि॥८॥
स्वामी दयानन्द सरस्वती
फिर उसी विषय को अगले मन्त्र में कहते हैं ॥
स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ॥
हे विद्वन् ! संचिकित्वान् विद्वान् विदुष्टरस्संस्त्वं यो वेरध्वरस्य दूत्यान्यन्तरुभे रोदसी दूतः प्रदिव उराणो गच्छति तं विज्ञाय दिव आरोधनानीयसे तस्मात् सुखं प्राप्नोषि ॥८॥