न तं जि॑नन्ति ब॒हवो॒ न द॒भ्रा उ॒र्व॑स्मा॒ अदि॑तिः॒ शर्म॑ यंसत्। प्रि॒यः सु॒कृत्प्रि॒य इन्द्रे॑ मना॒युः प्रि॒यः सु॑प्रा॒वीः प्रि॒यो अ॑स्य सो॒मी ॥५॥
na taṁ jinanti bahavo na dabhrā urv asmā aditiḥ śarma yaṁsat | priyaḥ sukṛt priya indre manāyuḥ priyaḥ suprāvīḥ priyo asya somī ||
न। तम्। जि॒न॒न्ति॒। ब॒हवः॑। न। द॒भ्राः। उ॒रु। अ॒स्मै॒। अदि॑तिः। शर्म॑। यं॒स॒त्। प्रि॒यः। सु॒ऽकृत्। प्रि॒यः। इन्द्रे॑। म॒ना॒युः। प्रि॒यः। सु॒प्र॒ऽअ॒वीः। प्रि॒यः। अ॒स्य॒। सो॒मी ॥५॥
स्वामी दयानन्द सरस्वती
फिर उसी विषय को अगले मन्त्र में कहते हैं ॥
स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ॥
हे मनुष्या ! य इन्द्रे प्रियः सुकृज्जनेषु प्रियः प्रियेषु मनायुर्धर्म्येण प्रियो विद्यासु सुप्रावीर्विद्वत्सु प्रियोऽस्य जगतो मध्ये सोमी वर्त्तते तं शत्रवो न जिनन्ति बहवो दभ्रा न हिंसन्त्यस्मा अदितिरुरु शर्म यंसत् ॥५॥