शृङ्गा॑णी॒वेच्छृ॒ङ्गिणां॒ सं द॑दृश्रे च॒षाल॑वन्तः॒ स्वर॑वः पृथि॒व्याम्। वा॒घद्भि॑र्वा विह॒वे श्रोष॑माणा अ॒स्माँ अ॑वन्तु पृत॒नाज्ये॑षु॥
śṛṅgāṇīvec chṛṅgiṇāṁ saṁ dadṛśre caṣālavantaḥ svaravaḥ pṛthivyām | vāghadbhir vā vihave śroṣamāṇā asmām̐ avantu pṛtanājyeṣu ||
शृङ्गा॑णिऽइव। शृ॒ङ्गिणा॒म्। सम्। द॒दृ॒श्रे॒। च॒षाल॑ऽवन्तः। स्वर॑वः। पृ॒थि॒व्याम्। वा॒घत्ऽभिः॑। वा॒। वि॒ऽह॒वे। श्रोष॑माणाः। अ॒स्मान्। अ॒व॒न्तु॒। पृ॒त॒नाज्ये॑षु॥
स्वामी दयानन्द सरस्वती
फिर कौन विद्वान् जन सत्कार पाते हैं, इस विषय को अगले मन्त्र में कहा है।
हरिशरण सिद्धान्तालंकार
आदर्श प्रचारक
स्वामी दयानन्द सरस्वती
पुनः के विद्वांसः सत्कारमाप्नुवन्तीत्याह।
ये चषालवन्तः स्वरवो विहवे श्रोषमाणा वाघद्भिः सह वर्त्तमानाः पृथिव्यां शृङ्गिणां शृङ्गाणीव संददृश्रे त इत्पृतनाज्येषु वेतरेषु व्यवहारेष्वस्मानवन्तु ॥१०॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
Nature of the learned persons that command respect is told further.
May those enlightened persons who have many enjoyable good objects, who are admirers of the virtuous discourses in assemblies, who appear on the earth along with wise priests like the horns of the horned cattle, protect us in the battles and other dealings.
