इन्द्र॒ आशा॑भ्य॒स्परि॒ सर्वा॑भ्यो॒ अभ॑यं करत्। जे॒ता शत्रू॒न् विऽच॑र्षणिः॥
indra āśābhyas pari sarvābhyo abhayaṁ karat | jetā śatrūn vicarṣaṇiḥ ||
इन्द्रः॑। आशा॑भ्यः। परि॑। सर्वा॑भ्यः। अभ॑यम्। क॒र॒त्। जेता॑। शत्रू॑न्। विऽच॑र्षणिः॥
स्वामी दयानन्द सरस्वती
फिर उसी विषय को कहते हैं।
स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह।
हे मनुष्या यो विचर्षणिरिन्द्रः शत्रून् जेतेव सर्वाभ्य आशाभ्यो नोऽभयं परिकरत् स एवास्माभिः सततमुपासनीयः ॥१२॥