अ॒स्य र॒ण्वा स्वस्ये॑व पु॒ष्टिः संदृ॑ष्टिरस्य हिया॒नस्य॒ दक्षोः॑। वि यो भरि॑भ्र॒दोष॑धीषु जि॒ह्वामत्यो॒ न रथ्यो॑ दोधवीति॒ वारा॑न्॥
asya raṇvā svasyeva puṣṭiḥ saṁdṛṣṭir asya hiyānasya dakṣoḥ | vi yo bharibhrad oṣadhīṣu jihvām atyo na rathyo dodhavīti vārān ||
अ॒स्य। र॒ण्वा। स्वस्य॑ऽइव। पु॒ष्टिः। सम्ऽदृ॑ष्टिः। अ॒स्य॒। हि॒या॒नस्य॑। धक्षोः॑। वि। यः। भरि॑भ्रत्। ओष॑धीषु। जि॒ह्वाम्। अत्यः॑। न। रथ्यः॑। दो॒ध॒वी॒ति॒। वारा॑न्॥
स्वामी दयानन्द सरस्वती
फिर उसी विषय को अगले मन्त्र में कहा है।
स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह।
यो रथ्योऽत्यो न वारान् जिह्वाँश्च दोधवीति। ओषधीषु विभरिभ्रदस्ति तस्यास्य स्वस्येव रण्वा पुष्टिर्हियानस्यास्य धक्षोः संदृष्टिश्च कार्य्या ॥४॥