यो र॒ध्रस्य॑ चोदि॒ता यः कृ॒शस्य॒ यो ब्र॒ह्मणो॒ नाध॑मानस्य की॒रेः। युक्तग्रा॑व्णो॒ यो॑ऽवि॒ता सु॑शि॒प्रः सु॒तसो॑मस्य॒ स ज॑नास॒ इन्द्रः॑॥
yo radhrasya coditā yaḥ kṛśasya yo brahmaṇo nādhamānasya kīreḥ | yuktagrāvṇo yo vitā suśipraḥ sutasomasya sa janāsa indraḥ ||
यः। र॒ध्रस्य॑। चो॒दि॒ता। यः। कृ॒शस्य॑। यः। ब्र॒ह्मणः॑। नाध॑मानस्य। की॒रेः। यु॒क्तऽग्रा॑व्णः। यः। अ॒वि॒ता। सु॒ऽशि॒प्रः। सु॒तऽसो॑मस्य। सः। ज॒ना॒सः॒। इन्द्रः॑॥
स्वामी दयानन्द सरस्वती
फिर उसी विषय को अगले मन्त्र में कहा है।
स्वामी दयानन्द सरस्वती
पुनरीश्वरविषयमाह।
हे जनासो यो रध्रस्य यो कृशस्य यो नाधमानस्य यो ब्रह्मणो युक्तग्राव्णो किरेश्चोदिता यः सुशिप्रः सुतसोमस्याऽविता स इन्द्रः परमेश्वरोऽस्ति ॥६॥