वांछित मन्त्र चुनें

स॒प्तास्या॑सन्परि॒धय॒स्त्रिः स॒प्त स॒मिध॑: कृ॒ताः । दे॒वा यद्य॒ज्ञं त॑न्वा॒ना अब॑ध्न॒न्पुरु॑षं प॒शुम् ॥

अंग्रेज़ी लिप्यंतरण

saptāsyāsan paridhayas triḥ sapta samidhaḥ kṛtāḥ | devā yad yajñaṁ tanvānā abadhnan puruṣam paśum ||

पद पाठ

स॒प्त । अ॒स्य॒ । आ॒स॒न् । प॒रि॒ऽधयः॑ । त्रिः । स॒प्त । स॒म्ऽइधः॑ । कृ॒ताः । दे॒वाः । यत् । य॒ज्ञम् । त॒न्वा॒नाः । अब॑ध्नन् । पुरु॑षम् । प॒शुम् ॥ १०.९०.१५

ऋग्वेद » मण्डल:10» सूक्त:90» मन्त्र:15 | अष्टक:8» अध्याय:4» वर्ग:19» मन्त्र:5 | मण्डल:10» अनुवाक:7» मन्त्र:15


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (अस्य) इस मानसयज्ञ या अध्यात्मयज्ञ की (सप्त परिधयः-आसन्) सात परिधियाँ हैं, जो “भूः भुवः स्वः महः जनः तपः सत्यम्” ये सात लोक परिधियाँ हैं, इनके विवेचन में यह यज्ञ चलता है और यजनीय परमात्मा का साक्षात्कार होता है (त्रिः सप्त) तीन गुणित सात अर्थात् इक्कीस (समिधः कृताः) समिधाएँ हैं, जो दश प्राण दश इन्द्रियाँ और एक मन हैं, ये उसमें होमे जाते हैं (यत्) यतः-जिससे (देवाः) ध्यानी विद्वान् जन (यज्ञं तन्वानाः) अध्यात्मयज्ञ का अनुष्ठान करते हुए-अनुष्ठान करने के हेतु (पशुं पुरुषम्) सर्वद्रष्टा पूर्ण पुरुष परमात्मा को (अबध्नन्) अपने आत्मा में बाँधते हैं-धारण करते हैं ॥१५॥
भावार्थभाषाः - अध्यात्मयज्ञ बाहरी सप्त लोकों के विवेचन में चलता है और उसमें दश प्राण, दश इन्द्रियाँ और मन, जो आत्मा की शक्तियाँ हैं, उन्हें लगाया जाता है-समर्पित किया जाता है, तब आत्मा के अन्दर परमात्मा का साक्षात् होता है ॥१५॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (अस्य) अस्य मानसयज्ञस्य यद्वा अध्यात्मयज्ञस्य (सप्त परिधयः-आसन्) “भूः भुवः स्वः महः जनः तपः सत्यम्, इति सप्त लोकाः परिधयः सन्ति” “इमे वै लोकाः परिधयः” [तै० ३।८।१८।४] एषां विवेचने यज्ञोऽयं प्रवर्त्तते, एषामन्तरे प्रवेशात्-खलु यजनीयदेवस्य परमात्मनः साक्षात्कारो भवति (त्रिः सप्त समिधः कृताः) त्रिगुणीकृतसप्तसंख्याका-एकविंशतिः कृताः समिधः प्राणादयो दश प्राणाः-इन्द्रियाणि वा दश, “प्राणा वै समिधः” [श० ९।२।३।४९] “प्राणा इन्द्रियाणि” [तां० २।१४।२] मनश्चेत्येकविंशतिः (समिध्यन्ते) हूयन्ते तस्मात् समिधः (यत्) यतः (देवाः-यज्ञं तन्वानाः) विद्वांसोऽध्यात्मयज्ञमनुतिष्ठन्तः (पशुं पुरुषम्-अबध्नन्) सर्वद्रष्टारं परमात्मानं स्वात्मनि बध्नन्ति धारयन्ति “बन्ध बन्धने” [क्र्यादि०] ॥१५॥