यमैच्छा॑म॒ मन॑सा॒ सो॒३॒॑ऽयमागा॑द्य॒ज्ञस्य॑ वि॒द्वान्परु॑षश्चिकि॒त्वान् । स नो॑ यक्षद्दे॒वता॑ता॒ यजी॑या॒न्नि हि षत्स॒दन्त॑र॒: पूर्वो॑ अ॒स्मत् ॥
yam aicchāma manasā so yam āgād yajñasya vidvān paruṣaś cikitvān | sa no yakṣad devatātā yajīyān ni hi ṣatsad antaraḥ pūrvo asmat ||
यम् । ऐच्छा॑म । मन॑सा । सः । अ॒यम् । आ । अ॒गा॒त् । य॒ज्ञस्य॑ । वि॒द्वान् । परु॑षः । चि॒कि॒त्वान् । सः । नः॒ । य॒क्ष॒त् । दे॒वऽता॑ता । यजी॑यान् । नि । हि । स॒त्स॒त् । अन्त॑रः । पूर्वः॑ । अ॒स्मत् ॥ १०.५३.१
ब्रह्ममुनि
इस सूक्त में ‘सौचीकोऽग्निः’ शब्द से देहाभिमानी आत्मा गृहीत है। उसके जन्मावसर पर प्रसन्नता, शिक्षणव्यवस्था, संयम से सांसारिक सुखलाभ और मोक्षलाभ प्राप्त करना चाहिए, श्रेष्ठ पुत्र और शिष्यों को बनाना आदि विषय वर्णित हैं।
ब्रह्ममुनि
अस्मिन् सूक्ते ‘सौचीकोऽग्निः’शब्देन देहाभिमान्यात्मा गृह्यते। यः स्वयमात्मानमनुभवति तस्य जन्मावसरे प्रसन्नता, शिक्षणव्यवस्था, संयमेन संसारसुखलाभो मोक्षलाभश्च कार्यः। श्रेष्ठपुत्रशिष्याणा-मुत्पत्त्यादयो विषयाः सन्ति।