दि॒वस्परि॑ प्रथ॒मं ज॑ज्ञे अ॒ग्निर॒स्मद्द्वि॒तीयं॒ परि॑ जा॒तवे॑दाः । तृ॒तीय॑म॒प्सु नृ॒मणा॒ अज॑स्र॒मिन्धा॑न एनं जरते स्वा॒धीः ॥
divas pari prathamaṁ jajñe agnir asmad dvitīyam pari jātavedāḥ | tṛtīyam apsu nṛmaṇā ajasram indhāna enaṁ jarate svādhīḥ ||
दि॒वः । परि॑ । प्र॒थ॒मम् । ज॒ज्ञे॒ । अ॒ग्निः । अ॒स्मत् । द्वि॒तीय॑म् । परि॑ । जा॒तऽवे॑दाः । तृ॒तीय॑म् । अ॒प्ऽसु । नृ॒ऽमनाः॑ । अज॑स्रम् । इन्धा॑नः । ए॒न॒म् । ज॒र॒ते॒ । सु॒ऽआ॒धीः ॥ १०.४५.१
ब्रह्ममुनि
इस सूक्त में ‘अग्नि’ शब्द से सूर्य, विद्युत्, अग्नि, तीनों गृहीत हैं, उनकी उत्पत्ति, विज्ञान और उपयोग बतलाया है। अन्तिम छः मन्त्रों में परमात्मा लिया है, वह जैसे-जैसे मनुष्यों का कल्याणसाधक है, वह कहा गया है ।
ब्रह्ममुनि
अस्मिन् सूक्ते ‘अग्नि’शब्देन सूर्यविद्युदग्नयो गृह्यन्ते, तेषामुत्पत्ति-स्थानानि तदुपयोगश्च प्रतिपाद्यते। अन्तिमे मन्त्रषट्के परमात्मा गृह्यते, स च मानवानां कल्याणसाधको यथा यथा भवतीति तदुपदिश्यते ।