विशं॑विशं म॒घवा॒ पर्य॑शायत॒ जना॑नां॒ धेना॑ अव॒चाक॑श॒द्वृषा॑ । यस्याह॑ श॒क्रः सव॑नेषु॒ रण्य॑ति॒ स ती॒व्रैः सोमै॑: सहते पृतन्य॒तः ॥
viśaṁ-viśam maghavā pary aśāyata janānāṁ dhenā avacākaśad vṛṣā | yasyāha śakraḥ savaneṣu raṇyati sa tīvraiḥ somaiḥ sahate pṛtanyataḥ ||
विश॑म्ऽविशम् । म॒घऽवा॑ । परि॑ । अ॒शा॒य॒त॒ । जना॑नाम् । धेनाः॑ । अ॒व॒ऽचाक॑शत् । वृषा॑ । यस्य । अह॑ । श॒क्रः । सव॑नेषु । रण्य॑ति । सः । ती॒व्रैः । सोमैः॑ । स॒ह॒ते॒ । पृ॒त॒न्य॒तः ॥ १०.४३.६