स॒वि॒ता य॒न्त्रैः पृ॑थि॒वीम॑रम्णादस्कम्भ॒ने स॑वि॒ता द्याम॑दृंहत् । अश्व॑मिवाधुक्ष॒द्धुनि॑म॒न्तरि॑क्षम॒तूर्ते॑ ब॒द्धं स॑वि॒ता स॑मु॒द्रम् ॥
savitā yantraiḥ pṛthivīm aramṇād askambhane savitā dyām adṛṁhat | aśvam ivādhukṣad dhunim antarikṣam atūrte baddhaṁ savitā samudram ||
स॒वि॒ता । य॒न्त्रैः । पृ॒थि॒वीम् । अ॒र॒म्णा॒त् । अ॒स्क॒म्भ॒ने । स॒वि॒ता । द्याम् । अ॒दृं॒ह॒त् । अश्व॑म्ऽइव । अ॒धु॒क्ष॒त् । धुनि॑म् । अ॒न्तरि॑क्षम् । अ॒तूर्ते॑ । ब॒द्धम् । स॒वि॒ता । स॒मु॒द्रम् ॥ १०.१४९.१
ब्रह्ममुनि
इस सूक्त में सूर्य पृथिवी को परमात्मा सम्भालता है, मेघ को वर्षाता है, जीवन्मुक्तों को मोक्ष में भेजता है, परमात्मा से भिन्न उसका अनुगामी उस जैसा चेतन जीव भी कहा है।
ब्रह्ममुनि
अस्मिन् सूक्ते सूर्यं पृथिवीं परमात्मा धारयति मेघं च वर्षयति जीवन्मुक्तान् मोक्षं प्रेरयति, परमात्मनो भिन्नस्तदनुगामी तद्धर्मश्चेतनो जीवोऽस्तीत्येवमादयो विषयाः सन्ति।