अ॒हं रु॒द्रेभि॒र्वसु॑भिश्चराम्य॒हमा॑दि॒त्यैरु॒त वि॒श्वदे॑वैः । अ॒हं मि॒त्रावरु॑णो॒भा बि॑भर्म्य॒हमि॑न्द्रा॒ग्नी अ॒हम॒श्विनो॒भा ॥
ahaṁ rudrebhir vasubhiś carāmy aham ādityair uta viśvadevaiḥ | aham mitrāvaruṇobhā bibharmy aham indrāgnī aham aśvinobhā ||
अ॒हम् । रु॒द्रेभिः॑ । वसु॑ऽभिः । च॒रा॒मि॒ । अ॒हम् । आ॒दि॒त्यैः । उ॒त । वि॒श्वऽदे॑वैः । अ॒हम् । मि॒त्रावरु॑णा । उ॒भा । बि॒भ॒र्मि॒ । अ॒हम् । इ॒न्द्रा॒ग्नी इति॑ । अ॒हम् । अ॒श्विना॑ । उ॒भा ॥ १०.१२५.१
ब्रह्ममुनि
इस सूक्त में पारमेश्वरी ज्ञानशक्ति वसुओं रुद्रों आदित्यों सूर्य चन्द्रमा को धारण करनेवाली सर्वत्र व्याप्त, मनुष्य को ब्रह्मा ऋषि बनानेवाली सब कामनाओं को पूरण करनेवाली है इत्यादि विषय हैं।
ब्रह्ममुनि
अस्मिन् सूक्ते पारमेश्वरी ज्ञानशक्तिः वसूनां रुद्राणामादित्यानां सूर्यचन्द्रयोर्धारयित्री सर्वत्र व्याप्ता ब्रह्माणमृषिं सम्पादयित्री सर्वकामपूरयित्रीत्येवमादयो विषयाः सन्ति।