असा॑वि॒ सोम॑: पुरुहूत॒ तुभ्यं॒ हरि॑भ्यां य॒ज्ञमुप॑ याहि॒ तूय॑म् । तुभ्यं॒ गिरो॒ विप्र॑वीरा इया॒ना द॑धन्वि॒र इ॑न्द्र॒ पिबा॑ सु॒तस्य॑ ॥
asāvi somaḥ puruhūta tubhyaṁ haribhyāṁ yajñam upa yāhi tūyam | tubhyaṁ giro vipravīrā iyānā dadhanvira indra pibā sutasya ||
असा॑वि । सोमः॑ । पु॒रु॒ऽहू॒त॒ । तुभ्य॑म् । हरि॑ऽभ्याम् । य॒ज्ञम् । उप॑ । या॒हि॒ । तूय॑म् । तुभ्य॑म् । गिरः॑ । विप्र॑ऽवीराः । इ॒या॒नाः । द॒ध॒न्वि॒रे । इ॒न्द्र॒ । पिब॑ । सु॒तस्य॑ ॥ १०.१०४.१
ब्रह्ममुनि
इस सूक्त में परमात्मा अपने उपासकों के दुःख दूर करता है, मृत्यु तक से पार करता है, उन्हें अपने आनन्द से तृप्त करता है, उसकी श्रद्धा से स्तुति प्रार्थना उपासना करनी चाहिये इत्यादि विषय वर्णित हैं।
ब्रह्ममुनि
अस्मिन् सूक्ते परमात्मा स्वोपासकानां दुःखानि दूरीकरोति मृत्युतश्च पारयति स्वानन्देन तान् तर्पयति तस्य श्रद्धया स्तुतिप्रार्थनोपासनाः कार्या इत्येवमादयो विषया वर्ण्यन्ते।