स हि क्ष॒पावाँ॑ अ॒ग्नी र॑यी॒णां दाश॒द्यो अ॑स्मा॒ अरं॑ सू॒क्तैः ॥
sa hi kṣapāvām̐ agnī rayīṇāṁ dāśad yo asmā araṁ sūktaiḥ ||
सः। हि। क्ष॒पाऽवा॑न्। अ॒ग्निः। र॒यी॒णाम्। दाश॑त्। यः। अ॒स्मै॒। अर॑म्। सु॒ऽउ॒क्तैः ॥
स्वामी दयानन्द सरस्वती
फिर वह मनुष्य कैसा हो, इस विषय को अगले मन्त्र में कहा है ॥
स्वामी दयानन्द सरस्वती
पुनः स कीदृश इत्युपदिश्यते ॥
हे चिकित्वो विद्वान् ! यस्त्वं क्षपावानग्निरिवास्मै रयीणामरं प्रापणायैतान् परं सूक्तैर्भूम देवानां जन्म मर्त्तांश्चादन्यश्च दाशत् स त्वं हि खल्वेतानि निपाहि ॥ ३ ॥