त्वं भु॑वः प्रति॒मानं॑ पृथि॒व्या ऋ॒ष्ववी॑रस्य बृह॒तः पति॑र्भूः। विश्व॒माप्रा॑ अ॒न्तरि॑क्षं महि॒त्वा स॒त्यम॒द्धा नकि॑र॒न्यस्त्वावा॑न् ॥
tvam bhuvaḥ pratimānam pṛthivyā ṛṣvavīrasya bṛhataḥ patir bhūḥ | viśvam āprā antarikṣam mahitvā satyam addhā nakir anyas tvāvān ||
त्वम्। भु॒वः॒। प्र॒ति॒ऽमान॑म्। पृ॒थि॒व्याः। ऋ॒ष्वऽवी॑रस्य। बृ॒ह॒तः। पतिः॑। भूः॒। विश्व॑म्। आ। अ॒प्राः॒। अ॒न्तरि॑क्षम्। म॒हि॒ऽत्वा। स॒त्यम्। अ॒द्धा। नकिः॑। अ॒न्यः। त्वाऽवा॑न् ॥
स्वामी दयानन्द सरस्वती
फिर वह परब्रह्म कैसा है, इस विषय का उपदेश अगले मन्त्र में किया है ॥
स्वामी दयानन्द सरस्वती
पुनः स कीदृश इत्यपुदिश्यते ॥
हे जगदीश्वर ! यस्त्वं पृथिव्या भुवः प्रतिमानं बृहतं ऋष्ववीरस्य जगतो महावीरस्य मनुष्यस्य पतिर्भूरसि त्वं विश्वं सर्वं जगदन्तरिक्षं सत्यं च महित्वाऽद्धाप्राः तस्मात् कश्चिदन्यस्त्वावान् नकिर्विद्यते ॥ १३ ॥