उषो॒ ये ते॒ प्र यामे॑षु यु॒ञ्जते॒ मनो॑ दा॒नाय॑ सू॒रयः॑ । अत्राह॒ तत्कण्व॑ एषां॒ कण्व॑तमो॒ नाम॑ गृणाति नृ॒णाम् ॥
uṣo ye te pra yāmeṣu yuñjate mano dānāya sūrayaḥ | atrāha tat kaṇva eṣāṁ kaṇvatamo nāma gṛṇāti nṛṇām ||
उषः॑ । ये । ते॒ । प्र । यामे॑षु । यु॒ञ्जते॑ । मनः॑ । दा॒नाय॑ । सू॒रयः॑ । अत्र॑ । अह॑ । तत् । कण्वः॑ । ए॒षा॒म् । कण्व॑तमः । नाम॑ । गृ॒णा॒ति॒ । नृ॒णाम्॥
स्वामी दयानन्द सरस्वती
जो प्रभात समय में योगाऽभ्यास करते हैं, वे किसको प्राप्त होते हैं, इस विषय का उपदेश अगले मंत्र में किया है।
हरिशरण सिद्धान्तालंकार
योग व जप
स्वामी दयानन्द सरस्वती
(उषः) उषसः (ये) (ते) तव (प्र) प्रकृष्टार्थे (यामेषु) प्रहरेषु (युञ्जते) अभ्यस्यन्ति (मनः) विज्ञानं (दानाय) विद्यादिदानाय (सूरयः) स्तोतारो विद्वांसः। सूरिरिति स्तोतृना० निघं० ३।१६। (अत्र) अस्यां विद्यायाम् (अह) विनिग्रहार्थे। अह इति विनिग्रहार्थीयः। निरु० १।१५। (तत्) (कण्वः) मेधावी (एषाम्) (कण्वतमः) अतिशयेन मेधावी (नाम) सञ्ज्ञादिकम् (गृणाति) प्रशंसति (नृणाम्) विद्याधर्मेषु नायकानां मनुष्याणां मध्ये ॥४॥
य उषसि योगमभ्यस्यन्ति ते किं प्राप्नुवन्तीत्याह।
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
Those who practice Yoga in the Dawn, what do they attain is taught in the fourth mantra.
O learned man, those educated devotees who having taken instructions from you practice Yoga and meditate upon God by fixing their minds on Him at the dawn in order to give true knowledge to others, become siddhas (accomplished persons). The wise man who glorifies these true leaders of knowledge and Dharma (righteousness) becomes the wisest among men.
