उ॒वासो॒षा उ॒च्छाच्च॒ नु दे॒वी जी॒रा रथा॑नाम् । ये अ॑स्या आ॒चर॑णेषु दध्रि॒रे स॑मु॒द्रे न श्र॑व॒स्यवः॑ ॥
uvāsoṣā ucchāc ca nu devī jīrā rathānām | ye asyā ācaraṇeṣu dadhrire samudre na śravasyavaḥ ||
उ॒वास॑ । उ॒षाः । उ॒च्छात् । च॒ । नु । दे॒वी । जी॒रा । रथा॑नाम् । ये । अ॒स्याः॒ । आ॒चर॑णेषु । द॒ध्रि॒रे । स॒मु॒द्रे । न । श्र॒व॒स्यवः॑॥
स्वामी दयानन्द सरस्वती
फिर वह कैसी हो, इस विषय का उपदेश अगले मंत्र में किया है।
हरिशरण सिद्धान्तालंकार
प्रभु - प्रेम न कि धनासक्ति
स्वामी दयानन्द सरस्वती
(उवास) वसति (उषाः) प्रभावती (उच्छात्) विवसनात् (च) समुच्चये (नु) शीघ्रम् (देवी) सुखदात्री (जीरा) वेगयुक्ता (रथानाम्) रमणसाधनानां यानानाम् (ये) विद्वांसः (अस्याः) सत्स्त्रियाः (आचरणेषु) समन्ताच्चरन्ति जानन्ति व्यवहरन्ति येषु तेषु (दध्रिरे) धरन्ति (समुद्रे) जलमयेऽन्तरिक्षे वा (न) इष (श्रवस्यवः) आत्मनः श्रवणमिच्छवः ॥३॥
पुनः सा कीदृशी भवेदित्युपदिश्यते।
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
How should woman be is taught in the third mantra.
A woman who is beautiful and pleasant like the dawn, active and giver of pleasure and happiness travels by various pleasant vehicles. Those who are pleased with their (wives') good conduct and love them, enjoy happiness, as those who are desirous of wealth and send their ships to sea.
