यस्या॒ रुश॑न्तो अ॒र्चयः॒ प्रति॑ भ॒द्रा अदृ॑क्षत । सा नो॑ र॒यिं वि॒श्ववा॑रं सु॒पेश॑समु॒षा द॑दातु॒ सुग्म्य॑म् ॥
yasyā ruśanto arcayaḥ prati bhadrā adṛkṣata | sā no rayiṁ viśvavāraṁ supeśasam uṣā dadātu sugmyam ||
यस्याः॑ । रुश॑न्तः । अ॒र्चयः॑ । प्रति॑ । भ॒द्राः । अदृ॑क्षत । सा । नः॒ । र॒यिम् । वि॒श्ववा॑रम् । सु॒पेश॑सम् । उ॒षाः । द॒दा॒तु॒ । सुग्म्य॑म्॥
स्वामी दयानन्द सरस्वती
फिर वह कैसी होकर क्या देवे, इस विषय का उपदेश अगले मंत्र में किया है।
हरिशरण सिद्धान्तालंकार
"विश्ववार - सुपेशस् - सुग्म्य" रयि
स्वामी दयानन्द सरस्वती
(यस्याः) प्रकाशिकायाः (रुशन्तः) चोरदस्य्वन्धकारादीन् हिंसन्तः (अर्चयः) प्रकाशाः (प्रति) प्रत्यक्षार्थे (भद्राः) कल्याणकारकाः (अदृक्षत) दृश्यन्ते (सा) (नः) अस्मभ्यम् (रयिम्) चक्रवर्त्तिराज्यश्रियम् (विश्ववारम्) येन विश्वं सर्वं वृणोति तत् (सुपेशसम्) शोभनं पेशो रूपं यस्मात्तत् (उषाः) उषर्वत्सुरूपप्रदा (ददातु) (सुग्म्यम्) सुखेषु भवमानन्दम्। सुग्ममितिसुखना०। निघं० ३।६। ॥१३॥
पुनः सा कीदृशी भूत्वा किं दद्यादित्युपदिश्यते।
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The same subject is continued.
O noble woman, as the Ushas (Dawn) whose bright auspicious rays are visible all around, gives us desirable, agreeable and easily attainable wealth in the form of health and happiness, in the same manner, you should also give all this and gladden us.
