यन्ना॑सत्या परा॒वति॒ यद्वा॒ स्थो अधि॑ तु॒र्वशे॑ । अतो॒ रथे॑न सु॒वृता॑ न॒ आ ग॑तं सा॒कं सूर्य॑स्य र॒श्मिभिः॑ ॥
yan nāsatyā parāvati yad vā stho adhi turvaśe | ato rathena suvṛtā na ā gataṁ sākaṁ sūryasya raśmibhiḥ ||
यत् । ना॒स॒त्या॒ । प॒रा॒वति॑ । यत् । वा॒ । स्थः । अधि॑ । तु॒र्वशे॑ । अतः॑ । रथे॑न । सु॒वृता॑ । नः॒ । आ । ग॒त॒म् । सा॒कम् । सूर्य॑स्य । र॒श्मिभिः॑॥
स्वामी दयानन्द सरस्वती
फिर वे क्या करें, इस विषय का उपदेश अगले मंत्र में किया है।
स्वामी दयानन्द सरस्वती
(यत्) यं रथम् (नासत्या) सत्यगुणकर्मस्वभावौ सभासेनेशौ (परावति) दूरं दूरं देशं प्रति गमने कर्त्तव्ये (यत्) यत्र (वा) पक्षान्तरे (स्थः) (अधि) उपरिभावे (तुर्वशे) वेद शिल्पादिविद्यावति मनुष्ये। तुर्वश इति मनुष्यना०। निघं० २।३। (अतः) कारणात् (रथेन) विमानादियानेन (सुवृता) शोभना वृतोऽङ्गपूर्त्तिर्य्यस्य तेन (नः) अस्मान् (आ) अभितः (गतम्) गच्छतम् (साकम्) सह (सूर्यस्य) सवितृमंडलस्य (रश्मिभिः) किरणैः ॥७॥
पुनरेतौ किं कुरुतामित्युपदिश्यते।