सु॒दासे॑ दस्रा॒ वसु॒ बिभ्र॑ता॒ रथे॒ पृक्षो॑ वहतमश्विना । र॒यिं स॑मु॒द्रादु॒त वा॑ दि॒वस्पर्य॒स्मे ध॑त्तं पुरु॒स्पृह॑म् ॥
sudāse dasrā vasu bibhratā rathe pṛkṣo vahatam aśvinā | rayiṁ samudrād uta vā divas pary asme dhattam puruspṛham ||
सु॒दासे॑ । द॒स्रा॒ । वसु॑ । बिभ्र॑ता । रथे॑ । पृक्षः॑ । व॒ह॒त॒म् । अ॒श्वि॒ना॒ । र॒यिम् । स॒मु॒द्रात् । उ॒त । वा॒ । दि॒वः । परि॑ । अ॒स्मे इति॑ । ध॒त्त॒म् । पु॒रु॒स्पृह॑म्॥
स्वामी दयानन्द सरस्वती
फिर वे कैसे हैं, इस विषय का उपदेश अगले मंत्र में किया है।
स्वामी दयानन्द सरस्वती
(सुदासे) सुष्ठु शोभना दासा यस्य तस्मिन् (दस्रा) शत्रूणामुपक्षेतारौ (वसु) विद्यादिधनसमूहम् (बिभ्रता) धरन्तौ (रथे) विमानादियाने (पृक्षः) सुखसंपर्कनिमित्तं विज्ञानम्। अत्र पृचीधातोः बाहुलकाद् औणादिकोऽसुन्प्रत्ययस्तस्य सुडागमश्च। (वहतम्) प्रापयतम् (अश्विना) वायुविद्युदादिरिव व्याप्तैश्वर्य्यौ (रयिम्) राजश्रियम् (समुद्रात्) सागरादन्तरिक्षाद्वा (उत) अपि (वा) पक्षान्तरे (दिवः) द्योतनात्मकात्सूर्यात् (परि) सर्वतः (अस्मे) अस्मभ्यम् (धत्तम्) (पुरुस्पृहम्) यत्सत्पुरुषैर्बहुभिः स्पृह्यत ईप्स्यते तत् ॥६॥
पुनस्तौ कीदृशावित्युपदिश्यते।