याभिः॒ कण्व॑म॒भिष्टि॑भिः॒ प्राव॑तं यु॒वम॑श्विना । ताभिः॒ ष्व १॒॑ स्माँ अ॑वतं शुभस्पती पा॒तं सोम॑मृतावृधा ॥
yābhiḥ kaṇvam abhiṣṭibhiḥ prāvataṁ yuvam aśvinā | tābhiḥ ṣv asmām̐ avataṁ śubhas patī pātaṁ somam ṛtāvṛdhā ||
याभिः॑ । कण्व॑म् । अ॒भिष्टि॑भिः । प्र । आव॑तम् । यु॒वम् । अ॒श्वि॒ना॒ । ताभिः॑ । सु । अ॒स्मान् । अ॒व॒त॒म् । शु॒भः॒ । प॒ती॒ इति॑ । पा॒तम् । सोम॑म् । ऋ॒त॒वृ॒धा॒॥
स्वामी दयानन्द सरस्वती
फिर वे क्या करें इस विषय का उपदेश अगले मंत्र में किया है।
हरिशरण सिद्धान्तालंकार
शुभ के रक्षक प्राणापान
स्वामी दयानन्द सरस्वती
(याभिः) वक्ष्यमाणाभिः (कण्वम्) मेधाविनम् (अभिष्टिभिः) या आभिमुख्येनेष्यन्ते ताभिरभीष्टाभिरिच्छाभिः। अत्र एमन्नादिषु छन्दसि पररूपं वक्तव्यम् इति पूर्वस्येकारस्य पररूपम्। (प्र) प्रकृष्टार्थे (आवतम्) पालयतम् (युवम्) युवाम् (अश्विना) सूर्य्यचन्द्रमसाविव सभासेनाध्यक्षौ (ताभिः) उक्ताभिः (सु) शोभनार्थे (अस्मान्) धार्मिकान् पुरुषार्थिनो मनुष्यान् (अवतम्) (शुभः) कल्याणकरस्य कर्मणः शुभगुणसमूहस्य वा (पती) पालयितारौ (पातम्) रक्षतम् (सोमम्) ऐश्वर्य्यम् (ऋतावृधा) यावृतेन सत्यानुष्ठानेन वर्धेते तौ ॥५॥
पुनस्तौ किं कुरुतमित्युपदिश्यते।
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
O President of the Assembly and Commander of the Army, who are endowed with the attributes of the sun and the moon, who increase with the observance of truth and are its supporters, who are guardians of all good deeds, protect and preserve us with those noble desires by which you protect the true wealth and a wise man.
