त्रि॒ष॒ध॒स्थे ब॒र्हिषि॑ विश्ववेदसा॒ मध्वा॑ य॒ज्ञं मि॑मिक्षतम् । कण्वा॑सो वां सु॒तसो॑मा अ॒भिद्य॑वो यु॒वां ह॑वन्ते अश्विना ॥
triṣadhasthe barhiṣi viśvavedasā madhvā yajñam mimikṣatam | kaṇvāso vāṁ sutasomā abhidyavo yuvāṁ havante aśvinā ||
त्रि॒ष्सध॒स्थे । ब॒र्हिषि॑ । वि॒श्व॒वे॒द॒सा॒ । मध्वा॑ । य॒ज्ञम् । मि॒मि॒क्ष॒त॒म् । कण्वा॑सः । वाम् । सु॒तसो॑माः । अ॒भिद्य॑वः । यु॒वाम् । ह॒व॒न्ते॒ । अ॒श्वि॒ना॒॥
स्वामी दयानन्द सरस्वती
फिर वे कैसे हैं इस विषय का उपदेश अगले मंत्र में किया है।
स्वामी दयानन्द सरस्वती
(त्रिषधस्थे) त्रीणि भुजलपवनाख्यानि स्थित्यर्थानि स्थानानि यस्मिँस्तस्मिन् (बर्हिषि) अन्तरिक्षे (विश्ववेदसा) विश्वान्यखिलान्यन्नानि धनानि वा ययोस्तौ (मध्वा) मधुरेण रसेन। जसादिषु छन्दसि वा वचनाद् नादेशो न। (यज्ञम्) शिल्पाख्यम् (मिमिक्षतम्) मेढुं सेक्तुमिच्छतम् (कण्वासः) मेधाविनः (वाम्) युवाम् (सुतसोमाः) सुता निष्पादिताः सोमाः पदार्थसारा यैस्ते (अभिद्यवः) अभितः सर्वतो द्यवो दीप्ता विद्या विद्युदादयः पदार्थाः साधिता यैस्ते। अत्र द्युतधातोर्बाहुलकादौणादिको डुः प्रत्ययः। (युवाम्) यौ (हवन्ते) गृह्णन्ति (अश्विना) क्षत्रधर्मव्यापिनौ ॥४॥
पुनस्तौ कीदृशावित्युपदिश्यते।