त्रि॒व॒न्धु॒रेण॑ त्रि॒वृता॑ सु॒पेश॑सा॒ रथे॒ना या॑तमश्विना । कण्वा॑सो वां॒ ब्रह्म॑ कृण्वन्त्यध्व॒रे तेषां॒ सु शृ॑णुतं॒ हव॑म् ॥
trivandhureṇa trivṛtā supeśasā rathenā yātam aśvinā | kaṇvāso vām brahma kṛṇvanty adhvare teṣāṁ su śṛṇutaṁ havam ||
त्रि॒व॒न्धु॒रेण॑ । त्रि॒वृता॑ । सु॒पेश॑सा । रथे॑न । आ । या॒त॒म् । अ॒श्वि॒ना॒ । कण्वा॑सः । वा॒म् । ब्रह्म॑ । कृ॒ण्व॒न्ति॒ । अ॒ध्व॒रे । तेषा॑म् । सु । शृ॒णु॒त॒म् । हव॑म्॥
स्वामी दयानन्द सरस्वती
उससे सिद्ध किये हुए यान से क्या करना चाहिये इस विषय का उपदेश अगले मंत्र में किया है।
स्वामी दयानन्द सरस्वती
(त्रिबंधुरेण) त्रीणि बन्धुराणि बंधनानि यस्मिंस्तेन (त्रिवृता) त्रिभिः शिल्पक्रियाप्रकारैः प्रपूरितस्तेन (सुपेशसा) शोभनं पेशो रूपं हिरण्यं वा यस्मिन् तेन। पेश इतिरूपना०। निघं० ३।७। हिरण्यना० च निघं० १।२। (रथेन) विमानादिना (आ) अभितः (यातम्) गच्छतम् (अश्विना) अग्निजले इव वर्त्तमानौ (कण्वासः) मेधाविनः (वाम्) एतयोः सकाशात् (ब्रह्म) अन्नम्। ब्रह्मेत्यन्नना० निघं० २।७। (कृण्वन्ति) कुर्वन्ति (अध्वरे) संगते शिल्पक्रियासिद्धे याने (तेषाम्) मेधाविनाम् (सु) शोभनार्थे (शृणुतम्) (हवम्) ग्राह्यं विद्याशब्दसमूहम् ॥२॥
ताभ्यां साधितेन #किं कर्त्तव्यमित्युपदिश्यते। #[यानेन। सं०]