प्रि॒य॒मे॒ध॒वद॑त्रि॒वज्जात॑वेदो विरूप॒वत् । अ॒ङ्गि॒र॒स्वन्म॑हिव्रत॒ प्रस्क॑ण्वस्य श्रुधी॒ हव॑म् ॥
priyamedhavad atrivaj jātavedo virūpavat | aṅgirasvan mahivrata praskaṇvasya śrudhī havam ||
प्रि॒य॒मे॒ध॒वत् । अ॒त्रि॒वत् । जात॑वेदः । वि॒रू॒प॒वत् । अ॒ङ्गि॒र॒स्वत् । म॒हि॒व्र॒त॒ । प्रस्क॑ण्वस्य । श्रु॒धि॒ । हव॑म्॥
स्वामी दयानन्द सरस्वती
फिर वह क्या करे, इस विषय का उपदेश अगले मंत्र में किया है।
हरिशरण सिद्धान्तालंकार
'प्रियमेध - अत्रि - विरूप व अङ्गिरस' - 'प्रस्कण्व' जीवन का सन्मार्ग
स्वामी दयानन्द सरस्वती
(प्रियमेधवत्) प्रिया तृप्ता कमनीया प्रदीप्ता मेधा बुद्धिर्यस्य तेन तुल्यः (अत्रिवत्) न विद्यन्ते त्रयआध्यात्मिकाधिभौतिकाधिदैविकास्तापा यस्य तद्वत् (जातवेदः) यो जातेषु पदार्थेषु विद्यते सः (विरूपवत्) विविधानि रूपाणि यस्य तद्वत् (जातवेदः) यो जातेषु पदार्थेषु विद्यते सः (विरूपवत्) विविधानि रूपाणि यस्य तद्वत् (अंगिरस्वत्) योऽङ्गानां रसः प्राणस्तद्वत् (महिव्रत) महि महद्व्रतं शीलं यस्य सः (प्रस्कण्वस्य) प्रकृष्टश्चासौ कण्वो मेधावी (श्रुधी) शृणु। अत्र #व्यत्ययो द्व्यचोऽतस्तिङ इति दीर्घः। (हवम्) ग्राह्यं देयमध्ययनाध्यापनाख्यं व्यवहारम्। यास्कमुनिरेषमिमं मंत्रं व्याख्यातवान्। प्रियमेधः प्रिया अस्य मेधा यथैतेषामृषीणामेवं प्रस्कण्वस्य शृणु ह्णनम्। प्रस्कण्वः कण्वस्य पुत्रः कण्वस्य प्रभवो यथा प्राग्रमिति। विरूपो नानारूपो महिव्रतो महाव्रत इति। निरु० ३।१७। ॥३॥ #[‘विष्करण व्यत्ययः’ इत्यर्थः। सं०]
पुनः स किंकुर्यादित्युपदिश्यते।
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
What should he (Agni) do is further taught in the third Mantra.
O learned person knower of many things, accomplisher of many great vows, listen to the invocation dealing with reading and teaching of him who is possessed of wisdom, like a person, who is lover of genius, like one who has risen above three kinds of sufferings i.e. spiritual, including physical, social and cosmic, like a scientist who knows the properties and attributes of various substances and like one who knows the science of Prana or vital energy.
