होता॑रं वि॒श्ववे॑दसं॒ सं हि त्वा॒ विश॑ इ॒न्धते॑ । स आ व॑ह पुरुहूत॒ प्रचे॑त॒सोऽग्ने॑ दे॒वाँ इ॒ह द्र॒वत् ॥
hotāraṁ viśvavedasaṁ saṁ hi tvā viśa indhate | sa ā vaha puruhūta pracetaso gne devām̐ iha dravat ||
होता॑रम् । वि॒श्ववे॑दसम् । सम् । हि । त्वा॒ । विशः॑ । इ॒न्धते॑ । सः । आ । व॒ह॒ । पु॒रु॒हू॒त॒ । प्रचे॑तसः । अग्ने॑ । दे॒वान् । इ॒ह । द्र॒वत्॥
स्वामी दयानन्द सरस्वती
फिर वह किस प्रकार का है, इस विषय का उपदेश अगले मंत्र में किया है।
हरिशरण सिद्धान्तालंकार
होता - विश्ववेदस्
स्वामी दयानन्द सरस्वती
(होतारम्) हवनस्य कर्त्तारम् (विश्ववेदसम्) विश्वानि सर्वाणि सुखानि विन्दति यस्मात्तम् (सम्) सम्यगर्थे (हि) खलु (त्वा) त्वाम् (विशः) प्रजाः (इन्धते) प्रदीप्यन्ते (सः) (आ) अभितः (वह) प्राप्नुहि (पुरुहूत) यः पुरुभिर्बहुभिर्विद्वद्भिर्हूयते स्तूयते तस्तम्बुद्धौ (प्रचेतसः) प्रकृष्टं चेतो विज्ञानं यासां ताः (अग्ने) विशिष्टज्ञानयुक्त (देवान्) वीरान्विदुषो दिव्यगुणान् वा (इह) अस्मिन् युद्धादिव्यवहारे (द्रवत्) द्रवतु ॥७॥
पुनः स कीदृशोऽस्तीत्युपदिश्यते।
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
How is he (Agni) is taught in the seventh Mantra.
O highly learned person, invoked and remembered by many, the people possessing good knowledge you invite (literally kindle)you who are doer of Yajnas-a noble sacrificer. Quickly bring hither other excellently wise divine persons and virtues and to help them in all good dealings.
