सु॒शंसो॑ बोधि गृण॒ते य॑विष्ठ्य॒ मधु॑जिह्वः॒ स्वा॑हुतः । प्रस्क॑ण्वस्य प्रति॒रन्नायु॑र्जी॒वसे॑ नम॒स्या दैव्यं॒ जन॑म् ॥
suśaṁso bodhi gṛṇate yaviṣṭhya madhujihvaḥ svāhutaḥ | praskaṇvasya pratirann āyur jīvase namasyā daivyaṁ janam ||
सु॒शंसः॑ । बो॒धि॒ । गृ॒ण॒ते । य॒वि॒ष्ठ्य॒ । मधु॑जिह्वः । सुआ॑हुतः । प्रस्क॑ण्वस्य । प्र॒ति॒रन् । आयुः॑ । जी॒वसे॑ । न॒म॒स्य । दैव्य॑म् । जन॑म्॥
स्वामी दयानन्द सरस्वती
फिर वह कैसा है, किसके लिये क्या करता है, इस विषय का उपदेश अगले मंत्र में किया है।
हरिशरण सिद्धान्तालंकार
सुशंस, मधुजिह्व, स्वाहुत
स्वामी दयानन्द सरस्वती
(सुशंसः) शोभना शंसाः स्तुतयो यस्य विदुषः सः (बोधि) बुध्येत। अत्र लिङर्थे लुङडभावश्च। (गृणते) स्तुतिं कुर्वते (यविष्ठ्य) अतिशयेन युवा यविष्ठो यविष्ठ एव यविष्ठ्यस्तत्सम्बुद्धौ (मधुजिह्वः) मधुरगुणयुक्ता जिह्वा यस्य। अत्र फलिपाटिनमि०। उ० १।१८। अनेन मनधातो रुः प्रत्ययो नस्य धकारादेशश्च। (स्वाहुतः) यः सुखेनाहूयते (प्रस्कण्वस्य) प्रकृष्टश्चासौ कण्वो मेधावी च तस्य (प्रतिरन्) दुःखत्तरन्। अत्र बहुलं छन्दसि इति शपो लुक्। (आयुः) जीवनम् (जीवसे) जीवितुम् (नमस्य) पूजितुं योग्य। अत्र नमस् धातोर्ण्यत्। अन्येषामपि० इति दीर्घश्च (दैव्यम्) देवेषु विद्वत्सु भवम् (जनम्) मनुष्यम् ॥६॥
पुनः स कीदृशः कस्मै किं करोतीत्युपदिश्यते।
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
How is he (Agni) and what does he do is taught in the 6th Mantra.
O most youthful (energetic) respectable learned person, you who are honey-tongued, universally praised, invited with pleasure, teach Shastras to the man who praises you, cast aside the misery of noble highly intelligent person, lengthening his life thereby and protect a divine man. It is for doing such noble deeds that you are honored by all.
