अ॒द्या दू॒तं वृ॑णीमहे॒ वसु॑म॒ग्निं पु॑रुप्रि॒यम् । धू॒मके॑तुं॒ भाऋ॑जीकं॒ व्यु॑ष्टिषु य॒ज्ञाना॑मध्वर॒श्रिय॑म् ॥
adyā dūtaṁ vṛṇīmahe vasum agnim purupriyam | dhūmaketum bhāṛjīkaṁ vyuṣṭiṣu yajñānām adhvaraśriyam ||
अ॒द्य । दू॒तम् । वृ॒णी॒म॒हे॒ । वसु॑म् । अ॒ग्निम् । पु॒रु॒प्रि॒यम् । धू॒मके॑तुम् । भाःऋ॑जीकम् । विउ॑ष्टिषु । य॒ज्ञाना॑म् । अ॒ध्व॒र॒श्रिय॑म्॥
स्वामी दयानन्द सरस्वती
फिर कैसे मनुष्य को स्वीकार करे, इस विषय का उपदेश अगले मंत्र में किया है।
हरिशरण सिद्धान्तालंकार
धूमकेतु [भाऋजीक] अध्वरश्रीः
स्वामी दयानन्द सरस्वती
(अद्य) अस्मिन् दिने। निपातस्य च इति दीर्घः। (दूतम्) यो दुनोति पदार्थान् देशांतरं प्रापयति तम् (वृणीमहे) स्वीकुर्वीमहि (वसुम्) सकलविद्यानिवासम् (अग्निम्) पावकमिव विद्वांसम् (पुरुप्रियम्) यः पुरूणां बहूनां प्रियस्तम् (धूमकेतुम्) धूमकेतुर्ध्वजो यस्य तम् (भाऋजीकम्) भाति प्रकाशयति सा भा भा कान्तिर्वा तां योऽर्जयते तम् (व्युष्टिषु) विविधा उष्टयः कामनाश्च तासु (यज्ञानाम्) अग्निहोत्राद्यश्वमेधान्तानां योगज्ञानशिल्पोपासनाज्ञानानां वा मध्ये (अध्वरश्रियम्) याऽध्वराणामहिंसनीयानां यज्ञानां श्रीः शोभा ताम् ॥३॥
पुनस्तं कथंभूतं स्वीकुर्य्युरित्युपदिश्यते।
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
We select to-day (having acquired human life and at the time of gaining knowledge) as messenger a good popular learned person, who shines like fire in assemblies and on the occasion of the fulfilment of noble desires; who is also like the fire among the non-violent Yajnas from Agnihotra to Ashwa Medha or consisting of Yoga, Shilpa (Industries) Upasana (communion with God) and knowledge, bearing the glory of the Yajnas of inviolable various kinds and fire-bannered spreader of the light.
