जुष्टो॒ हि दू॒तो असि॑ हव्य॒वाह॒नोऽग्ने॑ र॒थीर॑ध्व॒राणा॑म् । स॒जूर॒श्विभ्या॑मु॒षसा॑ सु॒वीर्य॑म॒स्मे धे॑हि॒ श्रवो॑ बृ॒हत् ॥
juṣṭo hi dūto asi havyavāhano gne rathīr adhvarāṇām | sajūr aśvibhyām uṣasā suvīryam asme dhehi śravo bṛhat ||
जुष्टः॑ । हि । दू॒तः । असि॑ । ह॒व्य॒वाहनः । अग्ने॑ । र॒थीः । अ॒ध्व॒राणा॑म् । स॒जूः । अ॒श्विभ्या॑म् । उ॒षसा॑ । सु॒वीर्य॑म् । अ॒स्मे इति॑ । धे॒हि॒ । श्रवः॑ । बृ॒हत्॥
स्वामी दयानन्द सरस्वती
फिर विद्वानों के सङ्ग के गुणों का उपदेश अगले मंत्र में किया है।
हरिशरण सिद्धान्तालंकार
बृहत् श्रव
स्वामी दयानन्द सरस्वती
(जुष्टः) प्रीतः सेवितः (हि) खलु (दूतः) शत्रूणामुपतापयिताऽतिप्रतापगुणयुक्तो वा (असि) (हव्यवाहनः) यो हव्यानि ग्राह्यदातव्यानि हुतानि द्रव्याणि यानानि वा वहति प्राप्नोति सः (अग्ने) राजविद्याविचक्षण (रथीः) प्रशस्ता रथा यस्य सन्ति सः। अत्र छन्दसीवनिपौ च वक्तव्यौ। अ० ५।२।१०९। अनेन# रथशब्दान्मत्वर्थ ईप्रत्ययः। (अध्वराणाम्) अहिंसनीयानां यज्ञानां मध्ये (सजूः) यः समानान् जुषते। अत्र जुष धातोः क्विप् समानस्य सादेशश्च (अश्विभ्याम्) वायुजलाभ्याम् (उषसाः) प्रातःकालेन युक्तया क्रियया (सुवीर्य्यम्) सुष्ठुवीर्य्याणि यस्य सः (अस्मे) अस्मासु। अत्र सुपां सुलुग् इति सप्तम्याः स्थाने शे आदेशः। (धेहि) धर (श्रवः) सर्वविद्याश्रवणनिमित्तमन्नम् (बृहत्) महत्तमम् ॥२॥ #[वार्त्तिकेन। सं०।]
पुनर्विद्वत्संगगुणा उपदिश्यन्ते।
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
O learned person well-versed in Political Science, thou art well-loved messenger, destroyer of the wicked and mighty, charioteer of the noble non-violent deeds, impeller of the substances or vehicles to be taken and given. Grant us heroic strength and food that makes us virile and full of knowledge along with the air and water and the act done at the dawn.
