तमिद्वो॑चेमा वि॒दथे॑षु शं॒भुवं॒ मन्त्रं॑ देवा अने॒हस॑म् । इ॒मां च॒ वाचं॑ प्रति॒हर्य॑था नरो॒ विश्वेद्वा॒मा वो॑ अश्नवत् ॥
tam id vocemā vidatheṣu śambhuvam mantraṁ devā anehasam | imāṁ ca vācam pratiharyathā naro viśved vāmā vo aśnavat ||
तम् । इत् । वो॒चे॒म॒ । वि॒दथे॑षु । श॒म्भुव॑म् । मन्त्र॑म् । दे॒वाः॒ । अ॒ने॒हस॑म् । इ॒माम् । च॒ । वाच॑म् । प्रति॒हर्य॑थ । न॒रः॒ । विश्वा॑ । इत् । वा॒मा । वः॒ । अ॒श्न॒व॒त्॥
स्वामी दयानन्द सरस्वती
अब अगले मंत्र में सब मनुष्यों के लिये वेदों के पढ़ने का अधिकार है, इस विषय का उपदेश अगले मंत्र में किया है।
स्वामी दयानन्द सरस्वती
(तम्) वेदम् (इत्) एव (वोचेम) उपदिशेम। अन्येषामपीति दीर्घः। (विदथेषु) विज्ञानेषु पठनपाठनव्यवहारेषु कर्तव्येषु सत्सु। विदथानि वेदनानि विदथानि प्रचोदयादित्यपि निगमो भवति। निरु० ६।७। (शंभुवम्) शं कल्याणं यस्मात्तम्। अत्र शम्युपपदे भुवः# संज्ञान्तरयोः इति क्विप् कृतोबहुलम् इति हेतौ (मन्त्रम्) मन्यते गुप्ताः पदार्थाः परिभाषन्ते येन तम् मंत्रा मननात्। निरु० ७।१२। (देवाः) विद्वांसः (अनेहसम्) अहिंसनीयं सर्वदा रक्ष्यं निर्दोषम्। अत्र नञिहन एह च। उ० ४।*२३१। इति नञ्पूर्वकस्य हन् धातोः प्रयोगः (इमाम्) वेदचतुष्टयीम् (च) सत्यविद्यान्वयसमुच्चये (वाचम्) वाणीम् (प्रतिहर्यथ) पुनः पुनर्विजानीथ। अत्र अन्येषामपि इति दीर्घः। (नरः) विद्यानेतारः (विश्वा) सर्वा (इत्) यदि (वामा) प्रशस्ता वाक्। वाम इति प्रशस्यनामसु पठितम्। निघं० ३।८। (वः) युष्मान् युष्मभ्यं वा (अश्नवत्) प्राप्नुयात्। अयं लेट् प्रयोगो व्यत्ययेन परस्मैपदं च ॥६॥ #[अ० ३।२।१७९।] *[उ० ४।२२४।]
अथ सर्वमनुष्याऽर्था वेदाः संतीत्युपदिश्यते।