प्रैतु॒ ब्रह्म॑ण॒स्पतिः॒ प्र दे॒व्ये॑तु सू॒नृता॑ । अच्छा॑ वी॒रं नर्यं॑ प॒ङ्क्तिरा॑धसं दे॒वा य॒ज्ञं न॑यन्तु नः ॥
praitu brahmaṇas patiḥ pra devy etu sūnṛtā | acchā vīraṁ naryam paṅktirādhasaṁ devā yajñaṁ nayantu naḥ ||
प्र । ए॒तु॒ । ब्रह्म॑णः । पतिः॑ । प्र । दे॒वी । ए॒तु॒ । सू॒नृता॑ । अच्छ॑ । वी॒रम् । नर्य॑म् । प॒ङ्क्तिरा॑धसम् । दे॒वाः । य॒ज्ञम् । न॒य॒न्तु॒ । नः॒॥
स्वामी दयानन्द सरस्वती
फिर ये लोग अन्योऽन्य कैसे वर्तें, इस विषय का उपदेश अगले मंत्र में किया है।
स्वामी दयानन्द सरस्वती
(प्र) प्रकृष्टार्थे (एतु) प्राप्नोतु (ब्रह्मणः) चतुर्वेदविदः (पतिः) पालयिता (प्र) प्रतीतार्थे (देवी) सर्वशास्त्र बोधेन देदीप्यमाना (एतु) प्राप्नोतु (सूनृता) प्रियसत्याचरणलक्षवाणीयुक्ता (अच्छ) शुद्धार्थे। अत्र निपातस्य च इति दीर्घः#। (वीरम्) पूर्णशरीरात्मबलप्रदम् (नर्यम्) नरेषु साधुं हितकारिणम् (पंक्तिराधसम्) यः पंक्तीर्धर्मात्मवीरमनुष्यसमूहान् राध्नोति यद्वा पंक्त्यर्थं राधोऽन्नं यस्य तम् (देवाः) विद्वांसः (यज्ञम्) पठनपाठनश्रवणोपदेशाख्यम् (नयंतु) प्रापयन्तु (नः) अस्मान् ॥३॥ #[अ० ६।३।१३६।]
पुनस्तैः #कथं वर्त्तितव्यमित्याह। #[मिथः। सं०]