त्वामिद्धि स॑हसस्पुत्र॒ मर्त्य॑ उपब्रू॒ते धने॑ हि॒ते । सु॒वीर्यं॑ मरुत॒ आ स्वश्व्यं॒ दधी॑त॒ यो व॑ आच॒के ॥
tvām id dhi sahasas putra martya upabrūte dhane hite | suvīryam maruta ā svaśvyaṁ dadhīta yo va ācake ||
त्वाम् । इत् । हि । स॒ह॒सः॒ । पु॒त्र॒ । मर्त्यः॑ । उ॒प॒ब्रू॒ते । धने॑ । हि॒ते । सु॒वीर्य॑म् । म॒रु॒तः॒ । आ । सु॒अश्व्य॑म् । दधी॑त । यः । वः॒ । आ॒च॒क्रे॥
स्वामी दयानन्द सरस्वती
फिर ये लोग आपस में कैसे वर्त्ते, इस विषय का उपदेश अगले मन्त्र में किया है।
स्वामी दयानन्द सरस्वती
(त्वाम्) (इत्) एव (हि) खलु (सहसः) शरीरात्मबलयुक्तस्य विदुषः (पुत्र) (मर्त्यः) मनुष्यः (उपब्रूते) सर्वां विद्यामुपदिशेत् (धने) विद्यादिगुणसमूहे (हिते) सुखसम्पादके (सुवीर्यम्) शोभनं वीर्यं पराक्रमो यस्मिँस्तत् (मरुतः) धीमन्तो जनाः (आ) समन्तात् (स्वश्व्यम्) शोभनेष्वश्वेषु विद्याव्याप्तविषयेषु साधुम्# (दधीत) धरत (यः) विद्वान् (वः) युष्मान् (आचके) सर्वतस्सुखैस्तर्प्पयेत् ॥२॥ #[‘तत्र साधुः’ अ० ४।४।९८, इत्यनेन यत्प्रत्ययः। सं०]
पुनरेतैः परस्परं कथं वर्त्तितव्यमित्याह।